Skip to content

Shiva Ashtottarashata Divyasthaniya Namavalih

Namavali · 1 verse · 4 min read

|| श्री शिवाष्टोत्तरशतदिव्यस्थानीयनामावलिः ||

Verse 1

श्रीगणेशाय नमः । अथ नामावलिः । ॐ कैवल्यशैले श्रीकण्ठाय नमः । ॐ हिमवति केदाराय नमः । ॐ काशीपुर्यां विश्वनाथाय नमः । ॐ श्रीशैले मल्लिकार्जुनाय नमः । ॐ प्रयागे नीलकण्ठेशाय नमः । ॐ गयायां रुद्राय नमः । ॐ कालञ्जरपुरे नीलकण्ठेश्वराय नमः । ॐ द्राक्षारामे भीमेशाय नमः । ॐ मायूरे अम्बिकेश्वराय नमः । ॐ ब्रह्मावर्ते देवलिङ्गाय नमः । १० ॐ प्रभासे शशिभूषणाय नमः । ॐ श्वेतहस्तिपुरे श्रीमते वृषध्वजाय नमः । ॐ गोकर्णे गोकर्णेशाय नमः । ॐ सोमनाथके सोमेशाय नमः । ॐ श्रीरूपे त्यागराजाय नमः । ॐ वेदे वेदपुरीश्वराय नमः । ॐ भीमारामे भीमेशाय नमः । ॐ मन्थने कालिकेश्वराय नमः । ॐ मधुरायां चोक्कनाथाय नमः । ॐ मानसे माधवेश्वराय नमः । २० ॐ श्रीवाञ्छके चम्पकेशाय नमः । ॐ पञ्चवट्यां वटेश्वराय नमः । ॐ गजारण्ये वैद्येशाय नमः । ॐ तीर्थाद्रौ तीर्थकेश्वराय नमः । ॐ कुम्भकोणे कुम्भेशाय नमः । ॐ लेपाक्ष्यां पापनाशनाय नमः । ॐ कण्वपुर्यां कण्वेशाय नमः । ॐ मध्ये मध्यार्जुनेश्वराय नमः । ॐ हरिहरपुरे श्रीशङ्करनारायणेश्वराय नमः । ॐ विरञ्चिपुर्यां मार्गेशाय नमः । ३० ॐ पञ्चनद्यां गिरीश्वराय नमः । ॐ पम्पापुर्यां विरूपाक्षाय नमः । ॐ सोमाद्रौ मल्लिकार्जुनाय नमः । ॐ त्रिमकूटे अगस्त्येशाय नमः । ॐ सुब्रह्मण्ये अहिपेश्वराय नमः । ॐ महाबलशिलोच्चये महाबलेश्वराय नमः । ॐ दक्षिणावर्ते अर्केश्वराय नमः । ॐ महापुण्ये वेदारण्ये वेदारण्येश्वराय नमः । ॐ सोमपुर्यां मूर्तित्रयात्मकाय सोमेश्वराय नमः । ॐ अवन्त्यां रामलिङ्गेशाय नमः । ४० ॐ काश्मीरे विजयेश्वराय नमः । ॐ महानन्दिपुरे महानन्दिपुरेश्वराय नमः । ॐ कोटितीर्थे कोटीशाय नमः । ॐ वृद्धे वृद्धाचलेश्वराय नमः । ॐ महापुण्ये ककुद्गिरौ गङ्गाधरेश्वराय नमः । ॐ चामराज्यनगरे चामराजेश्वराय नमः । ॐ नन्दिगिरौ नन्दीश्वराय नमः । ॐ बधिराचले चण्डेशाय नमः । ॐ गरपुरे नञ्जुण्डेशाय नमः । ॐ शतश‍ृङ्गे अधिपेश्वराय नमः । ५० ॐ घनानन्दाचले सोमाय नमः । ॐ नल्लूरे विमलेश्वराय नमः । ॐ नीडानाथपुरे नीडानाथेश्वराय नमः । ॐ एकान्ते रामलिङ्गेशाय नमः । ॐ श्रीनागे कुण्डलीश्वराय नमः । ॐ श्रीकन्यायां त्रिभङ्गीशाय नमः । ॐ उत्सङ्गे राघवेश्वराय नमः । ॐ मत्स्यतीर्थे तीर्थेशाय नमः । ॐ त्रिकूटे ताण्डवेश्वराय नमः । ॐ प्रसन्नपुरे मार्गसहायेशाय नमः । ६० ॐ गण्डक्यां शिवनाभाय नमः । ॐ श्रीपतौ श्रीपतीश्वराय नमः । ॐ धर्मपुर्यां धर्मलिङ्गाय नमः । ॐ कन्याकुब्जे कलाधराय नमः । ॐ वाणिग्रामे विरिञ्चेशाय नमः । ॐ नेपाले नकुलेश्वराय नमः । ॐ जगन्नाथे मार्कण्डेयाय नमः । ॐ नर्मदातटे स्वयम्भुवे नमः । ॐ धर्मस्थले मञ्जुनाथाय नमः । ॐ त्रिरूपके व्यासेशाय नमः । ७० ॐ स्वर्णावत्यां कलिङ्गेशाय नमः । ॐ निर्मले पन्नगेश्वराय नमः । ॐ पुण्डरीके जैमिनीशाय नमः । ॐ अयोध्यायां मधुरेश्वराय नमः । ॐ सिद्धवट्यां सिद्धेशाय नमः । ॐ श्रीकूर्मे त्रिपुरान्तकाय नमः । ॐ मणिकुण्डलतीर्थे मणिमुक्तानदीश्वराय नमः । ॐ वटाटव्यां कृत्तिवाससे नमः । ॐ त्रिवेण्यां सङ्गमेश्वराय नमः । ॐ स्तनितायां मल्लेशाय नमः । ८० ॐ इन्द्रकीले अर्जुनेश्वराय नमः । ॐ शेषाद्रौ कपिलेशाय नमः । ॐ पुष्पे पुष्पगिरीश्वराय नमः । ॐ चित्रकूटे भुवनेशाय नमः । ॐ उज्जिन्यां कालिकेश्वराय नमः । ॐ ज्वालामुख्यां शूलटङ्काय नमः । ॐ मङ्गल्यां सङ्गमेश्वराय नमः । ॐ तञ्जापुर्यां बृहतीशाय नमः । ॐ वह्निपुष्करे रामेशाय नमः । ॐ लङ्काद्वीपे मत्स्येशाय नमः । ९० ॐ गन्धमादने कूर्मेशाय नमः । ॐ विन्ध्याचले वराहेशाय नमः । ॐ अहोबिले नृसिंहाय नमः । ॐ कुरुक्षेत्रे वामनेशाय नमः । ॐ कपिलतीर्थके परशुरामेशाय नमः । ॐ सेतौ रामेश्वराय नमः । ॐ साकेते बलरामेशाय नमः । ॐ वारणावते बौद्धेशाय नमः । ॐ तत्त्वक्षेत्रे कल्कीशाय नमः । ॐ महेन्द्रके कृष्णेशाय नमः । १००

॥ इति ललितागमे ज्ञानपादे शिवलिङ्गप्रादुर्भावपटलान्तर्गते श्रीशिवाष्टोत्तरशतदिव्यस्थानीयनामावलिः सम्पूर्णा ॥

About this stotra

This sacred Namavali (garland of names) lists 108 divine places (sthanas) associated with Lord Shiva. Each name reveals a different facet of Shiva’s divine glory — from Kashi and Rameshwaram to Mount Kailash and the twelve Jyotirlingas. Reciting these names is believed to bring the blessings of Lord Shiva.

The 108 divine abodes listed in this hymn span the length and breadth of Bharatavarsha (India), from the Himalayas in the north to Rameshwaram in the south, from Dwarka in the west to Jagannath Puri in the east. Each place is a sacred seat of Lord Shiva where he has manifested in a unique form. The Namavali includes the twelve Jyotirlingas — Somnath, Mallikarjuna, Mahakaleshwar, Omkareshwar, Vaidyanath, Nageshwar, Kedarnath, Tryambakeshwar, Rameshwar, Bhimashankar, Vishwanath, and Ghushmeshwar — along with many other hallowed sites like Kashi (Varanasi), Gaya, Prayag, Gokarna, and Chidambaram.

This hymn is sourced from the Lalitagama, Jnanapada, within the chapter on the emergence of Shivalingas (Shivalingapradurbhavapatala). Reciting these names with devotion is said to bestow the grace of Lord Shiva and the blessings that come from mentally visiting each of these sacred sites.